ॐ
श्री विग्नेश्वराय नमः
श्री गुरुभ्यो नमः
ॐ नमो भगवते श्री परमहंस योगानन्दाय सद्गुरवे नमः
ज्ञानावतार स्वामि श्री युक्तेश्वराय नमः
स्वामि श्री युक्तेश्वरेण प्रणीतम्
कैवल्य दर्शनम्
---
Kaivalya Darsanam
The Holy Science
by
Swami Sri Yukteshwar Giri
(Sankrit only)
---
I. वेद:
1. नित्यं पूर्णम्-अनादि-अनन्तं ब्रह्म परम् |
तत्-एव-एकम्-एव-अद्वैतं सत् ||
2. तत्र सर्वज्ञ-प्रेम-बीजम्-चित् सर्वशक्ति-बीजम्-आनन्दश्च ||
3. तत्-सर्व-शक्ति-बीज-जड-प्रकृति-वासनाया व्यक्त-भाव: |
प्रणव-शब्द: दिक्-काल-अणौ-अपि तस्य रूपाणि ||
4. तदेव जगत्-कारणं माया ईश्वरस्य, तस्य व्यष्टिर्-अविद्या ||
5. तत्-सर्वज्ञ-प्रेम-बीजं परं तदेव कूटस्थ-चैतन्यम् |
पुरुषोत्तम: तस्य-आभास: पुरुष: तस्माद्-अभेद: ||
6. चित्-सकाशाद्-अणोर्-महत्त्वं तत्-चित्त्वं, तत्र-सत्-अध्यवसाय: |
सत्त्वं बुद्धि: ततस्तत्-विपरीतं मन: चरमे-अभिमानो-अहङ्कार: तदेव जीव: ||
7. तत्-अहङ्कार-चित्त-विकार-पञ्च-तत्त्वानि ||
+
8. तान्येव कारण-शरीरम् पुरुषस्य ||
+
9. तेषां त्रिगुणेभ्य: पञ्चदश विषय-इन्द्रियाणि ||
+
10. एतानि मनो-बुद्धिभ्यां सह सप्तदश-सूक्ष्म-अङ्गानि |
लिङ्ग-शरीरस्य ||
11. तत: पञ्च-तत्त्वानां स्थिति-शील-तामसिक-विषय-पञ्च-तन्मात्राणां
पञ्चीकरणेन स्थूल-शरीरस्य-अङ्गानि जडी-भूत-पञ्च-क्षित्-अप् -तेजो-मरुत्-व्योमानि-उद्भूतानि ||
+
12. एतान्येव चतुर्विंशति: तत्त्वानि ||
13. तत्रैव चतुर्दश-भुवनानि व्याख्यातानि ||
14. त एव पञ्च कोषा: पुरुषस्य ||
15. स्थूल-ज्ञान-क्रमात् सूक्ष्म-विषय-इन्द्रिय-ज्ञानं स्वप्नवत् ||
+
16. तत्-क्रमात् मनो-बुद्धि-ज्ञानं-च-आयातम्-इति परोक्षम् ||
17. तत: सद्गुरु-लाभो भक्ति-योगश्च तेन-अपरोक्ष: ||
18. यत्-आत्मन: परमात्मनि दर्शनं-तत: कैवल्यम् ||
---
II. अभीष्टम्
1. अतो मुक्ति-जिज्ञासा ||
2. मुक्ति: स्वरूपे-अवस्थानम् ||
3. तदा सर्वक्लेश-निवृत्ति: परमार्थ-सिद्धिश्च ||
4. इतरत्र अपूर्ण-काम-जन्म-जन्मान्तर-व्यापि दु:खम् ||
5. क्लेशो अविद्या-मातृक: ||
+
6. भावे-अभावो अभावे भाव इत्येवं बोधो-अविद्या ||
7.तदेव-आवरण-विक्षेप-शक्ति-विशिष्टत्वात् क्षेत्रं-अस्मिता-अभिनिवेश-राग-द्वेषाणाम् ||
+
8. तस्यावरण-शक्तेर्-अस्मिता-अभिनिवेशौ विक्षेप-शक्तेश्च राग-द्वेषौ ||
+
9. स्व-स्वामि-शक्त्योर्-अविविक्त-ज्ञानं-अस्मिता ||
+
10. प्राकृतिक-संस्कार-मात्रम्-अभिनिवेश: ||
+
11. सुखकर-विषय-तृष्णा राग: ||
+
12. दु:खकर-विषय-त्याग-तृष्णा द्वेष: ||
13. क्लेश-मूलं कर्म तद्विपाक एव दु:खम् ||
14. सर्व-दु:खानां निवृत्तिर्-इत्यर्थ: ||
+
15. निवृत्तौ-अपि-अनुवृत्ति-अभाव: परम: ||
16. सर्व-काम-पूर्णत्वे सर्व-दु:ख-मूल-क्लेश-निवृत्ति: तदा परमार्थ-सिद्धि: ||
+
17. सत्-चित्-आनन्द-मयत्व-प्राप्तिर्-इति स्थिर-कामा: ||
+
18. सद्गुरु-दत्त-साधन-प्रभावात् चित्तस्य प्रसाद एव-आनन्द: ||
+
19. तत: सर्व-दु:खानां हानम्-तदा सर्व-भाव-उदय:-चित् ||
+
20. तत आत्मनो नित्यत्व-उपलब्धि: सत् ||
+
21. तदेव स्वरूपं पुरुषस्य ||
22. तदा सर्व-काम-पूर्णो-परमार्थ-सिद्धिकात् गुणानाम्-प्रतिप्रसव आत्मन: स्वरूप-प्रतिष्ठा, तदेव कैवल्यम् ||
---
III. साधनम्
1. तप: स्वाध्याय-ब्रह्मनिधानानि यज्ञ: ||
+
2. मात्रा-स्पर्शेषु तितिक्षा तप: ||
+
3. आत्म-तत्व-उपदेश-श्रवण-मनन-निदिध्यासनं-एव स्वाध्याय: ||
+
4. प्रणव-शब्द एव पन्था ब्रह्मण: तस्मिन् आत्म-समर्पणं ब्रह्मनिधानम् ||
5. श्रद्धा-वीर्य-स्मृति-समाधि-अनुष्ठानात् तस्य-आविर्भव: ||
+
6. स्वभावज-प्रेम्ण: वेग-तीव्रता श्रद्धा ||
7. श्रद्धा-सेवित-सद्गुरो: स्वभावज-उपदेश-पालने वीर्य-लाभ: ||
+
8. सर्व एव गुरव: सन्ताप-हारका: संशयच्-छेदका: शान्ति-प्रदायका: |
सत् तत्संग: ब्रह्मवत् करणीय:, विपरीतम्-असत् विषवद्-वर्जनीयम् ||
Quote (in 3.8 commentary):
अप्सु देवो मनुष्याणां दिवि देवो मनीषिणाम् |
काष्ठ-लोष्ट्रेषु मूर्खाणां युक्तस्य-आत्मनि देवता ||
9. तद्-वीर्यं यम-नियम-अनुष्ठानात् द्रुढ-भूमि: ||
+
10. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रह-आदयो यम: ||
+
11. शौच-सन्तोष-सद्गुरु-उपदेश-पालन-आदय: नियम: ||
12. तत: पाश-क्षय: ||
+
13. घृणा-लज्जा-भय-शोक-जुगुप्सा-जाति-कुल-माना: पाश-अष्टकम् ||
+
14. तदा चित्तस्य महत्त्वं वीरत्वं वा ||
+
15. गार्हस्थ्य-आश्रम-उपयोग्य-आसन-प्राणायाम-प्रत्याहार-साधनेषु योग्यता च || +
16. स्थिर-सुखं-आसनम् ||
+
17. प्राणानां संयम: प्राणायाम: ||
+
18. इन्द्रियाणाम्-अन्त-र्मुखत्वं प्रत्याहार: ||
19. चित्त-प्रसादे सति सर्व-भाव-उदय: स्मृति: ||
+
20. तदेव-अर्थमात्र-निर्भासं स्वरूप-शून्यमिव समाधि: ||
+
21. तत: संयमस्-तस्मात् ब्रह्म-प्रकाशक-प्रणव-शब्द-अनुभव: ||
+
22. तस्मिन्-आत्मनो योगो भक्ति-योगस्-तदा दिव्यत्वम् ||
23. मूढ-विक्षिप्त-क्षिप्त-एकाग्र-निरुद्धाश्-चित्त-भेदास्-ततो-जाति-अन्तर-परिणाम: ||
24. मूढ-चित्तस्य विपर्यय-वृत्ति-वशाद् जीवस्य शूद्रत्वम्, तदा ब्रह्मण: कला-मात्र-इन्द्रिय-ग्राह्य-स्थूल-विषय-प्रकाशात् कलि: ||
25. ब्रह्मण: प्रथम-पाद-पूर्णत्वे द्वितीय-सूक्ष्म-विषय-ज्ञाना-प्राप्त-संधिकाले चित्तस्य विक्षेपस्-तदा प्रमाण-वृत्ति-वशात् क्षत्रियत्वम् ||
+
26. तत: सद्गुरु-लाभो भक्ति-योगश्च तदा-लोकान्तर-गमनम् ||
27. भूः-भुवः-स्वः-महः-जनः-तप: सत्यम्-इति सप्त लोका: ||
28. भुव-र्लोके ब्रह्मण: द्वितीय-पाद-सूक्ष्मान्त-र्जगत्-प्रकाशाद् द्वापर:, जीवस्य द्विजत्वं-च, तदा चित्तस्य क्षिप्तत्वात्-तस्य वृत्ति-र्विकल्प: ||
29. स्वर्गे चित्तस्य-एकाग्र-तया वृत्ति: स्मृतिस्-तत:
ब्रह्मणस्-तृतीय-पाद-जगत्-कारण-प्रकृति-ज्ञान-वशात्
त्रेता, तदा विप्रत्वं जीवस्य ||
30. मह-र्लोके चित्तस्य निरुद्धत्वात्-तस्य वृत्ति-र्निद्रा
तत: सर्व-विकार-अभावे ब्रह्मवत् स्वात्म-अनुभवात्
ब्रह्मणत्वं-तदा-ब्रह्मणस्-तुरीयांश-सत्-पदार्थ-प्रकाशात् सत्यम् ||
31. तदपि संन्यासान् माया-अतित-जन-लोकस्थे मुक्त-संन्यासी ||
+
32. तत: चैतन्य-प्रकटित-तपो-लोके आत्मनो-अर्पणात्
सत्य-लोकस्थे कैवल्यम् ||
---
IV. विभूति:
1. सहज-द्रव्य-तपो-मन्त्रै: देह-त्रय-शुद्धिस्-तत: सिद्धि: ||
+
2. सद्गुरु-कृपया सा लभ्या ||
+
3. सहज-द्रव्येण स्थूलस्य तपसा सूक्ष्मस्य मन्त्रेण कारण-देह-चित्तस्य च शुद्धि: ||
4. साधन-प्रभावेण प्रणव-शब्द-आविर्भावस्-तदेव मन्त्र-चैतन्यम् ||
+
5. देश-भेदे तस्य भेदात् मन्त्र-भेद: साधकेषु ||
6. श्रद्धा-युक्तस्य सद्गुरु-लाभस्-तत: प्रवृत्तिस्-तदैव प्रवर्त्तका-अवस्था जीवस्य ||
7. यम-नियम-साधनेन पशुत्व-नाशस्-तत: वीरत्वम्-आसनादि-साधने योग्यता च तदैव साधका-अवस्था प्रवर्त्तकस्य ||
8. तत: भाव-उदयात् दिव्यत्वं तस्मिन् समाहिते दैव-वाणी प्रणव-अनुभवस्-तदैव सिद्धा-अवस्था साधकस्य ||
9. तत्-संयमात् सप्त-पाताल-दर्शनम् ऋषि-सप्तकस्य च-आविर्भाव: ||
10.तदा ज्ञान-शक्ति-योग-क्रमात् सप्त-स्वर्गा-अधिकारस्-ततश्-चतुर्-मनूनाम्-आविर्भाव: ||
11. तत: भूत-जयाद्-अणिमादि-ऐश्वर्यस्-आविर्भाव: ||
12. तत: सृष्टि-स्थिति-प्रलय-ज्ञानात् सर्व-निवृत्ति: |
तदा माया-अतिक्रमे आत्मन: परमात्मनि दर्शनात् कैवल्यम् ||
---
Quote (in Conclusion):
नलिनी-दल-गत-जलम्-अतितरलं तद्वत्-जीवनम्-अतिशय-चपलम् |
क्षणम्-इह सज्जन-सङ्गतिर्-एका भवति भव-आर्णव-तरणे नौका ||
- श्री आदि शंकराचार्य
---
ॐ तत् सत् ब्रह्मार्पणमस्तु ||
Comments
Post a Comment